यन्नि॒यानं॒ न्यय॑नं सं॒ज्ञानं॒ यत्प॒राय॑णम् ।
आ॒वर्त॑नं नि॒वर्त॑नं॒ यो गो॒पा अपि॒ तं हु॑वे ॥
यत् । नि॒ऽयान॑म् । नि॒ऽअय॑नम् । स॒म्ऽज्ञान॑म् । यत् । प॒रा॒ऽअय॑नम् ।
आ॒ऽवर्त॑नम् । नि॒ऽवर्त॑नम् । यः । गो॒पाः । अपि॑ । तम् । हु॒वे॒ ॥
नियानं अधिकरणे ल्युट् नियमेन यान्त्यगच्छन्ति गावोत्रेति नियानं गोष्ठाख्यं स्थानं यदस्तीति शेषः । यच्छब्दयोगात्तच्छब्दोध्याहर्तव्यः हुवइति क्रियापदं सर्वत्रानुषज्यते त- त्स्थानं हुवे आह्वयामि । आह्वानमभिमुखीकरणं तेन चात्र तत्पूर्विका प्रार्थना लक्ष्यते । गोसहितं गोष्ठं प्रार्थयइत्यर्थः । न्ययनं भावे ल्युट् नियमेन गृहं प्रति प्राप्तिलक्षणं गमनं यदस्ति तदपि प्रार्थये संज्ञानं गोभिः सह ऎकमत्यं यदस्ति तदपि प्रार्थये परायणं परा- गमनं वनं प्रति गवां चरणाय गमनं यदस्ति तदपि प्रार्थये आवर्तनं वनचारिणीभिर्गोभिः सह प्रवर्तनं यदस्ति तदपि प्रार्थये निवर्तनं वने चरित्वा गृहं प्रति यदागमनमस्ति तदपि प्रार्थये योपि गोपाः गवां पालको स्ति तमपि हुवे प्रार्थये सर्वगुणोपेतागाः प्रार्थयइत्यर्थः ॥ ४ ॥