मण्डलवर्गीकरणम्

मण्डलम् १०, सूक्तम् १९, ऋक् ५

संहिता

य उ॒दान॒ड्व्यय॑नं॒ य उ॒दान॑ट् प॒राय॑णम् ।
आ॒वर्त॑नं नि॒वर्त॑न॒मपि॑ गो॒पा नि व॑र्तताम् ॥

पदपाठः

यः । उ॒त्ऽआन॑ट् । वि॒ऽअय॑नम् । यः । उ॒त्ऽआन॑ट् । प॒रा॒ऽअय॑नम् ।
आ॒ऽवर्त॑नम् । नि॒ऽवर्त॑नम् । अपि॑ । गो॒पाः । नि । व॒र्त॒ता॒म् ॥

सायणभाष्यम्

योगोपाः गोपालः व्ययनं नष्टानां गवां अन्वेषणार्थं विविधगमनं उदानट् व्याप्नोति अनुभवति यः परायणं परागमनं उदानट् व्याप्नोति वनं प्रति गवां चरणाय गमनमित्य- र्थः यश्च आवर्तनं वनचारिणीभिर्गोभिः ह प्रवर्तनमनुभवति योपि गोपाः निवर्तनं गोभिः सह वनात् गृहं प्रति गमनमनुभवति सोपि गोपालः निवर्ततां गोभिः सह वनात् गृहं प्रति क्षेमेणागच्छतु ॥ ५ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः