मण्डलवर्गीकरणम्

मण्डलम् १०, सूक्तम् १९, ऋक् ६

संहिता

आ नि॑वर्त॒ नि व॑र्तय॒ पुन॑र्न इन्द्र॒ गा दे॑हि ।
जी॒वाभि॑र्भुनजामहै ॥

पदपाठः

आ । नि॒ऽव॒र्त॒ । नि । व॒र्त॒य॒ । पुनः॑ । नः॒ । इ॒न्द्र॒ । गाः । दे॒हि॒ ।
जी॒वाभिः॑ । भु॒न॒जा॒म॒है॒ ॥

सायणभाष्यम्

हे इन्द्र त्वं आनिवर्त आनिवर्तस्व अस्मदभिमुखोभव । ततः अन्यतोगच्छतीर्गाः निव- र्तय अस्मदभिमुखीकुरु । एवं कृत्वा च हे इन्द्र त्वं पुनः पश्चात् नोस्मभ्यं गाः देहि प्रय- च्छ । त्वया दत्ताभिः जीवाभिः चिरंजीवतीभिः सर्वस्य जीवयित्रीभिर्वा गोभिः भुनजा- महै वग्रं भुंजीमहि । यद्वा भुजिरत्रान्तर्भावितण्यर्थः देवपितॄन् संभोजयेमहि ॥ ६ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः