मण्डलवर्गीकरणम्

मण्डलम् १०, सूक्तम् १९, ऋक् ८

संहिता

आ नि॑वर्तन वर्तय॒ नि नि॑वर्तन वर्तय ।
भूम्या॒श्चत॑स्रः प्र॒दिश॒स्ताभ्य॑ एना॒ नि व॑र्तय ॥

पदपाठः

आ । नि॒ऽव॒र्त॒न॒ । व॒र्त॒य॒ । नि । नि॒ऽव॒र्त॒न॒ । व॒र्त॒य॒ ।
भूम्याः॑ । चत॑स्रः । प्र॒ऽदिशः॑ । ताभ्यः॑ । ए॒नाः॒ । नि । व॒र्त॒य॒ ॥

सायणभाष्यम्

मंत्रद्रष्टा ऋषिः स्वात्मानं गाश्च संबोध्याह हे मदीयात्मन् त्वं गाः आवर्तय आकारो प्यनेनापि संबध्यते मदभिमुखीं कुरु स्तुत्या यागेन च ताः प्रसाद्योपनमयेत्यर्थः । हे गावो यूयमपि प्रसाद्यमानाआनिवर्तन आनिवर्तध्वं आभिमुख्येनागच्छत । पुनरप्याह हे मदीया- त्मन् त्वं निवर्तय गोसंचरणस्थानादपगच्छन्तीर्गाः इतोभिगंत्रीः कुरु । यूयमपि हे गावःनि- वर्त्यमानाः सत्यः निवर्तन निवर्तध्वम् । इदानीं स्वात्मागावश्च ऋषिं प्रति ब्रुवते हे ऋषे अहं कुतोगानिवर्तयामीति कुतोवयं निवर्तामहइत्यात्मना गोभिश्च पृष्टः सन्नाह—भूम्याः पृथिव्याः चतस्रः प्रदिशः चतुःसंख्यायुक्ताः प्रकृष्टायादिशः सन्ति ताभ्योदिग्भ्यः एनागाः निवर्तय हे आत्मन् मदभिमुखीः कुरु । हे गावोयूयमपि ताभ्योदिग्भ्योनिवर्तध्वमिति सामर्थ्यालब्धम् । यद्वा अन्द्रैवतपक्षेपि सूक्तार्थे यथाघटते तथा योजना कर्तव्या ॥ ८ ॥

भद्रमिति दशर्चं चतुर्थं सूक्तं आद्याएकपदा दशाक्षरा विराट् अग्निमीळेभुजामित्येषा अनुष्टुप् नवमीविराट् दशमीत्रिष्टुप् मध्येषड्गायत्र्यः इदमादीनां सप्तसुक्तानामिन्द्रपुत्रः प्रजा पतिपुत्रोवा विमदऋषिः वसुक्रपुत्रोवसुकृदाख्योवा । इदमुत्तरं चाग्नेयम् । तथाचानुक्रान्तं— सप्तोत्तराण्यैन्द्रोविमदः प्रजापत्योवा वासुक्रोवसुकृद्वा । भद्रं दशाग्नेयंतुगायत्रमाद्यैकपदा पाद एव वा शांत्यर्थः परानुष्टुबंत्येविराट्त्रिष्टुभाविति । गतोविनियोगः ।

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः