मण्डलवर्गीकरणम्

मण्डलम् १०, सूक्तम् २०, ऋक् १

संहिता

भ॒द्रं नो॒ अपि॑ वातय॒ मनः॑ ॥

पदपाठः

भ॒द्रम् । नः॒ । अपि॑ । वा॒त॒य॒ । मनः॑ ॥

सायणभाष्यम्

हे अग्ने त्वं नोस्माकं मनः भद्रं शुभयुक्तं अपिवातय अपिरत्रधात्वर्थानुवादी आगमय त्वत्संबन्धिस्तोत्रकरणे प्रेरयेत्यर्थः ॥ १ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः