मण्डलवर्गीकरणम्

मण्डलम् १०, सूक्तम् २०, ऋक् ३

संहिता

यमा॒सा कृ॒पनी॑ळं भा॒साके॑तुं व॒र्धय॑न्ति ।
भ्राज॑ते॒ श्रेणि॑दन् ॥

पदपाठः

यम् । आ॒सा । कृ॒पऽनी॑ळम् । भा॒साऽके॑तुम् । व॒र्धय॑न्ति ।
भ्राज॑ते । श्रेणि॑ऽदन् ॥

सायणभाष्यम्

स्तोतारोयष्टारश्च आसा स्तुतिहविर्लक्षणेनोपासनेन यमग्निं वर्धयन्ति कीदृशं कृपनीळं कर्मस्थानं कर्माधारमित्यर्थः भासाकेतुं ज्वालालक्षणज्ञापकं दीप्तेः कर्तारं यच्छब्दश्रुतेः त- च्छब्दोध्याहार्यः सोग्निः श्रेणिदन् श्रोतृभ्योयष्टृभ्यः अभीष्टफलसमूहप्रदः शत्रुभ्योज्वालापंक्ति प्रदोवा एवंभूतः सन् भ्राजते भासते ॥ ३ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः