मण्डलवर्गीकरणम्

मण्डलम् १०, सूक्तम् २०, ऋक् ५

संहिता

जु॒षद्ध॒व्या मानु॑षस्यो॒र्ध्वस्त॑स्था॒वृभ्वा॑ य॒ज्ञे ।
मि॒न्वन्त्सद्म॑ पु॒र ए॑ति ॥

पदपाठः

जु॒षत् । ह॒व्या । मानु॑षस्य । ऊ॒र्ध्वः । त॒स्थौ॒ । ऋभ्वा॑ । य॒ज्ञे ।
मि॒न्वन् । सद्म॑ । पु॒रः । ए॒ति॒ ॥

सायणभाष्यम्

मानुषस्य यजमानस्य यज्ञे यजनीये यागे हव्या हव्यानि हवींषि जुषत् सेवमानोग्निः ऋभ्वा उरुभूतः बहुज्वालोपेतऊर्ध्वः तस्थौ उत्तिष्ठति ऊर्ध्वं ज्वलतीत्यर्थः । अपिच योग्निः पुरः प्राग्वंशादारभ्य सद्म सदनं सौमिकीं वेदिं मिन्वन् पुरः पुरस्तात् उत्तरवेदिशालामु- खीयात् प्रणीयमानः सन् एति गच्छति ॥ ५ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः