मण्डलवर्गीकरणम्

मण्डलम् १०, सूक्तम् २०, ऋक् ६

संहिता

स हि क्षेमो॑ ह॒विर्य॒ज्ञः श्रु॒ष्टीद॑स्य गा॒तुरे॑ति ।
अ॒ग्निं दे॒वा वाशी॑मन्तम् ॥

पदपाठः

सः । हि । क्षेमः॑ । ह॒विः । य॒ज्ञः । श्रु॒ष्टी । इत् । अ॒स्य॒ । गा॒तुः । ए॒ति॒ ।
अ॒ग्निम् । दे॒वाः । वाशी॑ऽमन्तम् ॥

सायणभाष्यम्

यउक्तलक्षणविशिष्टोग्निः हीत्येतदवधारणे सएवाग्निः क्षेमः कुशलहेतुः सर्वस्य परिपाल- नहेतुरित्यर्थः हविः पुरोडाशादिकं च सएव हविषः तन्निमितत्वात् यज्ञः यागोपिसएव तस्यापि तद्धेतुत्वात् । किंच श्रुष्टीत् क्षिप्रमेव अस्याग्नेः गातुर्गमनशीलः अधिष्ठात्रात्मा एति देवनामाह्वानार्थं गच्छति । गत्वा च प्रत्यागच्छन्तं वाशीमन्तं स्तुतिलक्षणया वाचो- पेतं अग्निं प्रतिदेवाः अपिगच्छन्तीतिशॆषः ॥ ६ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः