मण्डलवर्गीकरणम्

मण्डलम् १०, सूक्तम् २०, ऋक् ७

संहिता

य॒ज्ञा॒साहं॒ दुव॑ इषे॒ऽग्निं पूर्व॑स्य॒ शेव॑स्य ।
अद्रे॑ः सू॒नुमा॒युमा॑हुः ॥

पदपाठः

य॒ज्ञ॒ऽसह॑म् । दुवः॑ । इ॒षे॒ । अ॒ग्निम् । पूर्व॑स्य । शेव॑स्य ।
अद्रेः॑ । सू॒नुम् । आ॒युम् । आ॒हुः॒ ॥

सायणभाष्यम्

अत्रैकवाक्यतायै यत्तच्छब्दावध्याहार्यौ । अपरोर्धर्चः पूर्वं व्याख्येयः आयुं देवानामाह्वा- नार्थं दूत्येन गन्तारं यमग्निं अद्रेः सूनुं अश्मनः पुत्रं आहुः । त्वमद्भ्यस्त्वमश्मनस्परीत्येव- मादयोमंत्राः वदन्ति । यज्ञसहं यागस्यवोढारं धारयितारमित्यर्थः तमग्निं अभिलक्ष्य दुवः परिचरणं इषे इच्छामि । किमर्थं पूर्वस्य अत्र पूर्वशब्दउत्कृष्टवाची उत्कृष्टस्य शॆवस्य स्वर्गापवर्गलक्षणद्सुखस्य प्राप्त्यर्थमिति शेषः ॥ ७ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः