मण्डलवर्गीकरणम्

मण्डलम् १०, सूक्तम् २०, ऋक् ८

संहिता

नरो॒ ये के चा॒स्मदा विश्वेत्ते वा॒म आ स्यु॑ः ।
अ॒ग्निं ह॒विषा॒ वर्ध॑न्तः ॥

पदपाठः

नरः॑ । ये । के । च॒ । अ॒स्मत् । आ । विश्वा॑ । इत् । ते । वा॒मे । आ । स्यु॒रिति॑ स्युः ।
अ॒ग्निम् । ह॒विषा॑ । वर्ध॑न्तः ॥

सायणभाष्यम्

नरोनेतारः ये के च ये केचित् पुत्रपौत्रादयः अस्मदस्माकं सन्ति आकारः पूरकः ते पुत्रपौत्रादयः वामे वननीये संभजनीये विश्वेत् विश्वस्मिन्नेव पश्वादिधने आस्युः आसमन्ता द्भवेयुः उपविशेयुरित्याशास्महे । किंकुर्वन्तः अग्निं अंगनादिगुणविशिष्टं देवं हविषा पुरो- डाशादिकेन वर्धन्तः वर्धयन्तः ॥ ८ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः