मण्डलवर्गीकरणम्

मण्डलम् १०, सूक्तम् २१, ऋक् १

संहिता

आग्निं न स्ववृ॑क्तिभि॒र्होता॑रं त्वा वृणीमहे ।
य॒ज्ञाय॑ स्ती॒र्णब॑र्हिषे॒ वि वो॒ मदे॑ शी॒रं पा॑व॒कशो॑चिषं॒ विव॑क्षसे ॥

पदपाठः

आ । अ॒ग्निम् । न । स्ववृ॑क्तिऽभिः । होता॑रम् । त्वा॒ । वृ॒णी॒म॒हे॒ ।
य॒ज्ञाय॑ । स्ती॒र्णऽब॑र्हिषे । वि । वः॒ । मदे॑ । शी॒रम् । पा॒व॒कऽशो॑चिषम् । विव॑क्षसे ॥

सायणभाष्यम्

हे अग्ने वः तव स्वभूते विमदे एतदाख्ये ऋषौ मयि इयं स्तुतिः प्रवृत्तास्ति नेति संप्रत्यर्थे अतोवयमिदानीं स्ववृक्तिभिः स्वयं कृताभिः दोषवर्जिताभिः स्तुतिभिः होतारं देवानामाह्वातारं होमनिष्पादकं वा अग्निं त्वा त्वां आवृणीमहे आभिमुख्येन संभजामहे । किमर्थं स्तीर्णबर्हिषे यज्ञाय तादर्थ्ये चतुर्थी यज्ञार्थं कीदृशं शीरं ओषध्यादिषु सर्वत्रानुशा यिनं पावकशोचिषं शोधकदीप्तिं विवक्षसे महन्नामैतत् हे अग्ने त्वमपि महान् भवसि यद्वा विमदे यज्ञस्य संबन्धिनः सोमस्य पानजन्यविविधमदार्थं त्वामावृणीमहइति योज्यं ॥ १ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः