त्वामु॒ ते स्वा॒भुवः॑ शु॒म्भन्त्यश्व॑राधसः ।
वेति॒ त्वामु॑प॒सेच॑नी॒ वि वो॒ मद॒ ऋजी॑तिरग्न॒ आहु॑ति॒र्विव॑क्षसे ॥
त्वाम् । ऊं॒ इति॑ । ते । सु॒ऽआ॒भुवः॑ । शु॒म्भन्ति॑ । अश्व॑ऽराधसः ।
वेति॑ । त्वाम् । उ॒प॒ऽसेच॑नी । वि । वः॒ । मदे॑ । ऋजी॑तिः । अ॒ग्ने॒ । आऽहु॑तिः । विव॑क्षसे ॥
स्वाभुवः स्वप्रकाशेन दीप्यमानाः अश्वराधसोव्याप्तधनाः ते यजमानाः हे अग्ने त्वामु त्वामेव शुंभन्ति शोभयन्ति यज्ञेहविर्भिर्दीपयन्तीत्यर्थः । किंच उपसेचनी तवोपरिक्षरण- शीला ऋजीतिः ऋजुगामिनी हूयमाना आहुतिः हे अग्ने त्वां वेति गच्छति । किमर्थं वस्तव विमदे मदनिमित्ते तृप्त्यर्थमित्यर्थः । किंच त्वमपि विविक्षसे महान् भवसि ॥ २ ॥