मण्डलवर्गीकरणम्

मण्डलम् १०, सूक्तम् २१, ऋक् ४

संहिता

यम॑ग्ने॒ मन्य॑से र॒यिं सह॑सावन्नमर्त्य ।
तमा नो॒ वाज॑सातये॒ वि वो॒ मदे॑ य॒ज्ञेषु॑ चि॒त्रमा भ॑रा॒ विव॑क्षसे ॥

पदपाठः

यम् । अ॒ग्ने॒ । मन्य॑से । र॒यिम् । सह॑साऽवन् । अ॒म॒र्त्य॒ ।
तम् । आ । नः॒ । वाज॑ऽसातये । वि । वः॒ । मदे॑ । य॒ज्ञेषु॑ । चि॒त्रम् । आ । भ॒र॒ । विव॑क्षसे ॥

सायणभाष्यम्

हे अमर्त्य अमरणधर्मन् सहसावन् बलवन् एवंभूत हे अग्ने त्वं यं रयिं मन्यसे सर्वेषु धनेषु यद्धनं वरिष्ठमिति जानासि चित्रं चायनीयं रयिं नोस्माकम् । वाजसातये अन्नलाभाय आभर आहर प्रयच्छ । किमर्थं वोयुष्माकं सर्वेषां देवानां यज्ञेषु विमदे विविधसोमादि- हविर्जन्यमदनिमित्ते यागेषु नानाप्रकारैर्हविर्भिर्युष्माकं तर्पणायेत्यर्थः । त्वमपि विवक्षसे महान् भर्जन्यमदनिमित्ते यागेषु नानाप्रकारैर्हविर्भिर्युष्माकं तर्पणायेत्यर्थः । त्वमपि वि- वक्षसे महान् भवसि ॥ ४ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः