मण्डलवर्गीकरणम्

मण्डलम् १०, सूक्तम् २१, ऋक् ६

संहिता

त्वां य॒ज्ञेष्वी॑ळ॒तेऽग्ने॑ प्रय॒त्य॑ध्व॒रे ।
त्वं वसू॑नि॒ काम्या॒ वि वो॒ मदे॒ विश्वा॑ दधासि दा॒शुषे॒ विव॑क्षसे ॥

पदपाठः

त्वाम् । य॒ज्ञेषु॑ । ई॒ळ॒ते॒ । अग्ने॑ । प्र॒ऽय॒ति । अ॒ध्व॒रे ।
त्वम् । वसू॑नि । काम्या॑ । वि । वः॒ । मदे॑ । विश्वा॑ । द॒धा॒सि॒ । दा॒शुषे॑ । विव॑क्षसे ॥

सायणभाष्यम्

हे अग्ने त्वां प्रयति प्रकर्षेण गच्छति वर्तमाने अध्वरे यागे यज्ञेषु यजनीयेषु हविः षु आसन्नेषु सत्सु ईळते ऋत्विग्यजमानाः स्तुवन्ति । अपिच हे अग्ने त्वं विश्वा विश्वानि काम्या काम्यानि कमनीयानि वसूनि धनानि दाशुषे हविर्दत्तवते यजमानाय विमदे सो- मादिहविर्जन्यतृप्तौ सत्यां दधासि प्रयच्छसि अतः कारणाद्विवक्षसे त्वं महान् भवसि ॥ ६ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः