मण्डलवर्गीकरणम्

मण्डलम् १०, सूक्तम् २२, ऋक् ३

संहिता

म॒हो यस्पति॒ः शव॑सो॒ असा॒म्या म॒हो नृ॒म्णस्य॑ तूतु॒जिः ।
भ॒र्ता वज्र॑स्य धृ॒ष्णोः पि॒ता पु॒त्रमि॑व प्रि॒यम् ॥

पदपाठः

म॒हः । यः । पतिः॑ । शव॑सः । असा॑मि । आ । म॒हः । नृ॒म्णस्य॑ । तू॒तु॒जिः ।
भ॒र्ता । वज्र॑स्य । धृ॒ष्णोः । पि॒ता । पु॒त्रम्ऽइ॑व । प्रि॒यम् ॥

सायणभाष्यम्

यइन्द्रः महोमहतः शवसोबलस्य पतिः ईश्वरः असाम्या आङ् मर्यादायां आसमाप्तेः अनन्तगुणइत्यर्थः महोमहतोन्रुम्णस्य धनस्य च तूतुजिः स्तोतृभ्यः प्रेरकः । किंच धृष्णोः शत्रूणां धर्षकस्य वज्रस्य स्वकीयस्यायुधस्य भर्ता यइन्द्रोधारयिता सइन्द्रोस्मान्पात्विति शेषः । तत्रदृष्टान्तः—पिता पुत्रमिव प्रियं यथा पिता प्रियं ईप्सितं सुतं पाति तद्वत् ॥ ३ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः