मण्डलवर्गीकरणम्

मण्डलम् १०, सूक्तम् २२, ऋक् ४

संहिता

यु॒जा॒नो अश्वा॒ वात॑स्य॒ धुनी॑ दे॒वो दे॒वस्य॑ वज्रिवः ।
स्यन्ता॑ प॒था वि॒रुक्म॑ता सृजा॒नः स्तो॒ष्यध्व॑नः ॥

पदपाठः

यु॒जा॒नः । अश्वा॑ । वात॑स्य । धुनी॒ इति॑ । दे॒वः । दे॒वस्य॑ । व॒ज्रि॒ऽवः॒ ।
स्यन्ता॑ । प॒था । वि॒रुक्म॑ता । सृ॒जा॒नः । स्तो॒षि॒ । अध्व॑नः ॥

सायणभाष्यम्

हे वज्रिवः वज्रवन्निन्द्र एकोमत्वर्थीयोनुवादकः देवोद्योतमानस्त्वं देवस्य द्योतमानस्य वातस्य वायोः धुनी प्रेरकौ वायोरपिशीघ्रगामिनावित्यर्थः अश्वा अश्वौ त्वदीयौ हरिनाम- कौ युजानःस्वरथे संयोजयन् । कीदृशौ विरुक्मता विरोचनवता पथा मार्गेण स्यन्ता स्य- न्तौ गच्छन्तौ अध्वनः युद्धे गमनमार्गान् सृजानः उत्पादयन् स्तोषि सततं स्तूयसे ॥ ४ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः