मण्डलवर्गीकरणम्

मण्डलम् १०, सूक्तम् २२, ऋक् ७

संहिता

आ न॑ इन्द्र पृक्षसे॒ऽस्माकं॒ ब्रह्मोद्य॑तम् ।
तत्त्वा॑ याचाम॒हेऽव॒ः शुष्णं॒ यद्धन्नमा॑नुषम् ॥

पदपाठः

आ । नः॒ । इ॒न्द्र॒ । पृ॒क्ष॒से॒ । अ॒स्माक॑म् । ब्रह्म॑ । उत्ऽय॑तम् ।
तत् । त्वा॒ । या॒चा॒म॒हे॒ । अवः॑ । शुष्ण॑म् । यत् । हन् । अमा॑नुषम् ॥

सायणभाष्यम्

हे इन्द्र त्वं नइति तृतीयार्थे षष्ठी नोस्माभिः उद्यतं उत्क्षिप्तं दत्तमित्यर्थः अस्माकम- स्मदीयं ब्रह्म हविर्लक्षणमन्नं आङ्मर्यादायां आतृप्तेरित्यर्थः पृक्षसे आत्मना संपर्चय । पृची- संपर्के इति धातोरूपं आभक्षयेत्यर्थः । किंच वयमपि त्वा एवंभूतं त्वां तत् यदुत्कृष्टमस्ती ति शेषः तत्तादृशमन्नं अवः तद्रक्षणं च याचामहे प्रार्थयामहे यथा यच्छुष्णंबलं अमानुषं मनुष्यादन्यं राक्षसादिकं हन् हन्ति तदुत्कृष्टं बलंच याचामहे । यद्वा हे इन्द्र त्वं शुष्णं ए- तन्नामानं अमानुषं मनुष्यतिरिक्तमसुरं हन् हतवानसि । हत्वा यत् येन रक्षणेन त्रैलोक्यं पालयितवानसि तदवः पालनमस्माकमपि भवेदिति त्वां याचामहइति वाक्यार्थः ॥ ७ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः