मण्डलवर्गीकरणम्

मण्डलम् १०, सूक्तम् २२, ऋक् ९

संहिता

त्वं न॑ इन्द्र शूर॒ शूरै॑रु॒त त्वोता॑सो ब॒र्हणा॑ ।
पु॒रु॒त्रा ते॒ वि पू॒र्तयो॒ नव॑न्त क्षो॒णयो॑ यथा ॥

पदपाठः

त्वम् । नः॒ । इ॒न्द्र॒ । शू॒र॒ । शूरैः॑ । उ॒त । त्वाऽऊ॑तासः । ब॒र्हणा॑ ।
पु॒रु॒ऽत्रा । ते॒ । वि । पू॒र्तयः॑ । नव॑न्त । क्षो॒णयः॑ । य॒था॒ ॥

सायणभाष्यम्

हे शूर विक्रान्तेन्द्र त्वं शूरैः भटैः प्ररुद्भिः सहितः सन् नोस्मान् पाहीति शेषः उत अपिच त्वोतासः त्वया रक्षितावयं बर्हणा परिबर्हणायां शत्रूणां हिंसायां समर्थाभवेम । किंच ते त्वदीया पूर्तयः कामानां पूरणानि ईप्सितार्थप्रदानानि पुरुत्रा बहून् स्तोतॄन् विनवन्त विविधं व्याप्नुवन्ति क्षोणयः मनुष्यनामैतत् मनुष्याः स्वकीयं स्वामिनं सेवार्थं यथा व्याप्नुवन्ति तद्वत् ॥ ९ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः