मण्डलवर्गीकरणम्

मण्डलम् १०, सूक्तम् २२, ऋक् १०

संहिता

त्वं तान्वृ॑त्र॒हत्ये॑ चोदयो॒ नॄन्का॑र्पा॒णे शू॑र वज्रिवः ।
गुहा॒ यदी॑ कवी॒नां वि॒शां नक्ष॑त्रशवसाम् ॥

पदपाठः

त्वम् । तान् । वृ॒त्र॒ऽहत्ये॑ । चो॒द॒यः॒ । नॄन् । का॒र्पा॒णे । शू॒र॒ । व॒ज्रि॒ऽवः॒ ।
गुहा॑ । यदि॑ । क॒वी॒नाम् । वि॒शाम् । नक्ष॑त्रऽशवसाम् ॥

सायणभाष्यम्

हे वज्रिवः वज्रधर शूरेन्द्र त्वं कार्पाणे असिः कृपाणः तेन कार्यं युद्धं कार्पाणं त- स्मिन्वृत्रहत्ये शत्रुहननार्थं नॄन् नरान् तान् प्रसिद्धान् मरुद्गणान् चोदयः चोदयसि प्रेर- यसि यदि यदा त्वं कवीनां मेधाविनां नक्षत्रशवसां देवान् प्रतिगच्छत् स्तोत्रबलानां विशां स्तोतृजनानां संबन्धीनि गुहा गुहानि गूढानि गुणैः संवृतानि स्तोत्राणि श्रृणोषीति शेषः तदाप्रेरयसीति पूर्वेणान्वयः ॥ १० ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः