मण्डलवर्गीकरणम्

मण्डलम् १०, सूक्तम् २२, ऋक् ११

संहिता

म॒क्षू ता त॑ इन्द्र दा॒नाप्न॑स आक्षा॒णे शू॑र वज्रिवः ।
यद्ध॒ शुष्ण॑स्य द॒म्भयो॑ जा॒तं विश्वं॑ स॒याव॑भिः ॥

पदपाठः

म॒क्षु । ता । ते॒ । इ॒न्द्र॒ । दा॒नऽअ॑प्नसः । आ॒क्षा॒णे । शू॒र॒ । व॒ज्रि॒ऽवः॒ ।
यत् । ह॒ । शुष्ण॑स्य । द॒म्भयः॑ । जा॒तम् । विश्व॑म् । स॒याव॑ऽभिः ॥

सायणभाष्यम्

हे शूर विक्रान्त वज्रिवः वज्रोपेतेन्द्र दानाप्नसः दानकर्मणः स्तोतृभ्यः सततमभीष्टफल प्रदस्येत्यर्थः ते तव स्वभूतानि मक्षु क्षिप्राणि अविलंबितानि क्षिप्रकारणयुक्तानीत्यर्थ: आ- क्षाणे योद्धृभिर्व्याप्यमाने त्वय्यवस्थितानि ता तानि कर्माणि स्तोतारः स्तुवन्तीति शेषः सयावभिः सह यद्भ्रुभिर्मरुद्भिः सहितस्त्वं यद्ध यस्य प्रसिद्धस्य शुष्णस्यासुरस्य विश्वं जातं सर्वमपत्यजातं दंभयः अदंभयः हिंसितवानसि यद्वा एवमादीनि यानि खलु कर्माणि सन्ति तानि स्तुवन्तीति पूर्वेण संबन्धः ॥ ११ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः