मण्डलवर्गीकरणम्

मण्डलम् १०, सूक्तम् २३, ऋक् १

संहिता

यजा॑मह॒ इन्द्रं॒ वज्र॑दक्षिणं॒ हरी॑णां र॒थ्यं१॒॑ विव्र॑तानाम् ।
प्र श्मश्रु॒ दोधु॑वदू॒र्ध्वथा॑ भू॒द्वि सेना॑भि॒र्दय॑मानो॒ वि राध॑सा ॥

पदपाठः

यजा॑महे । इन्द्र॑म् । वज्र॑ऽदक्षिणम् । हरी॑नाम् । र॒थ्य॑म् । विऽव्र॑तानाम् ।
प्र । श्मश्रु॑ । दोधु॑वत् । ऊ॒र्ध्वऽथा॑ । भू॒त् । वि । सेना॑भिः । दय॑मानः । वि । राध॑सा ॥

सायणभाष्यम्

वयमिन्द्रं यजामहे सोमलक्षणैर्हविर्भिः पूजयामः । कीदृशं वज्रदक्षणं शत्रुवधाय सततं वज्रोदक्षिणहस्ते यस्य तं विव्रतानां रथवहनादिविविधकर्मणां हरीणां एतत्संज्ञकानामश्वा- नां रथ्यं आनेतारं सइन्द्रः सोमपानानन्तरं श्मश्रु स्वकीयानि श्मश्रूणि दोधुवत् पुनः पुन- र्धुन्वानः सन् ऊर्ध्वथा ऊर्ध्वं प्रभूत् प्रादुरभूत् । किंच सेनाभिः मरुदादिस्वकीयैः सैन्यैः वि दयमानः विविधं शत्रून् हिंसन् राधसा द्वितीयार्थेतृतीया राधेधनं वीत्युपसर्गश्रुतेर्योग्यक्रि- याध्याहारः विविधं स्तोतृभ्योददाति ॥ १ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः