मण्डलवर्गीकरणम्

मण्डलम् १०, सूक्तम् २३, ऋक् २

संहिता

हरी॒ न्व॑स्य॒ या वने॑ वि॒दे वस्विन्द्रो॑ म॒घैर्म॒घवा॑ वृत्र॒हा भु॑वत् ।
ऋ॒भुर्वाज॑ ऋभु॒क्षाः प॑त्यते॒ शवोऽव॑ क्ष्णौमि॒ दास॑स्य॒ नाम॑ चित् ॥

पदपाठः

हरी॒ इति॑ । नु । अ॒स्य॒ । या । वने॑ । वि॒दे । वसु॑ । इन्द्रः॑ । म॒घैः । म॒घऽवा॑ । वृ॒त्र॒ऽहा । भु॒व॒त् ।
ऋ॒भुः । वाजः॑ । ऋ॒भु॒क्षाः । प॒त्य॒ते॒ । शवः॑ । अव॑ । क्ष्णौ॒मि॒ । दास॑स्य । नाम॑ । चि॒त् ॥

सायणभाष्यम्

अस्येन्द्रस्य संबन्धिनौ या यौ हरी अश्वौ वने वन्यन्ते संभज्यन्तेस्मिन् देवाइति वनं यज्ञः अरण्यं वा तस्मिन् वसु ऋजीकलक्षणं धनं यवसलक्षणं वा नु क्षिप्रं विदे विन्देते लभेते । यद्वा यौ हरी अस्येन्द्रस्य वने संभजनार्थं वसुवसुनोलाभाय क्षिप्रं भवतइतिशेषः ताभ्यां हरिभ्यां मघैः धनैः मघवाधनवानिन्द्रः वृत्रहा वृत्राख्यासुरस्य मेघस्य वा हन्ता भुवत् भवति । अपिच ऋभुः दीप्तः वाजोबलवान् ऋभुक्षाः महानिन्द्रः शवः शवसोबल- स्य धनस्य वा पत्यते ईष्टे । यद्वा शत्रूणां बलं प्रतिपत्यते पद्यतेगच्छति अहमपि तस्य प्रसादात् दासस्य उपक्षपयितव्यस्य शत्रोः नामचित् नम्यतेऽनेनेतिनाम शिरः तदपि अव- क्ष्णौमि अवहन्मि किमुतान्यदंगं अथवा नामधेयमपि नाशयामि किमुत शत्रुं ॥ २ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः