मण्डलवर्गीकरणम्

मण्डलम् १०, सूक्तम् २३, ऋक् ३

संहिता

य॒दा वज्रं॒ हिर॑ण्य॒मिदथा॒ रथं॒ हरी॒ यम॑स्य॒ वह॑तो॒ वि सू॒रिभि॑ः ।
आ ति॑ष्ठति म॒घवा॒ सन॑श्रुत॒ इन्द्रो॒ वाज॑स्य दी॒र्घश्र॑वस॒स्पति॑ः ॥

पदपाठः

य॒दा । वज्र॑म् । हिर॑ण्यम् । इत् । अथ॑ । रथ॑म् । हरी॒ इति॑ । यम् । अ॒स्य॒ । वह॑तः । वि । सू॒रिऽभिः॑ ।
आ । ति॒ष्ठ॒ति॒ । म॒घऽवा॑ । सन॑ऽश्रुतः । इन्द्रः॑ । वाज॑स्य । दी॒र्घऽश्र॑वसः । पतिः॑ ॥

सायणभाष्यम्

यदा इन्द्रोहिरण्यं हितरमणीयं वज्रं स्वकीयमायुधं शत्रुहननायगृह्णातीतिशेषः । इदिति पूरणः । अथ तदानीं अस्येन्द्रस्य हरी अश्वौ यं रथं विवहतः गन्तृप्रदेशं विशेषेण प्राप- यतः मघवा धनवानिन्द्रः सूरिभिः स्तोतृभिः कुत्सादिभिः सह तं रथमातिष्ठति आरोहति । कीदृशः सनश्रुतः चिरप्रख्यातः जगति स्वभावतएव विख्यातइत्यर्थः । दीर्घश्रवसः बहुकी- र्तेः वाजस्यान्नस्य पतिः स्वामी एवंभूतइन्द्रस्ते रथमारोहतीत्यर्थः ॥ ३ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः