मण्डलवर्गीकरणम्

मण्डलम् १०, सूक्तम् २३, ऋक् ४

संहिता

सो चि॒न्नु वृ॒ष्टिर्यू॒थ्या॒३॒॑ स्वा सचाँ॒ इन्द्र॒ः श्मश्रू॑णि॒ हरि॑ता॒भि प्रु॑ष्णुते ।
अव॑ वेति सु॒क्षयं॑ सु॒ते मधूदिद्धू॑नोति॒ वातो॒ यथा॒ वन॑म् ॥

पदपाठः

सो इति॑ । चि॒त् । नु । वृ॒ष्टिः । यू॒थ्या॑ । स्वा । सचा॑ । इन्द्रः॑ । श्मश्रू॑णि । हरि॑ता । अ॒भि । प्रु॒ष्णु॒ते॒ ।
अव॑ । वे॒ति॒ । सु॒ऽक्षय॑म् । सु॒ते । मधु॑ । उत् । इत् । धू॒नो॒ति॒ । वातः॑ । यथा॑ । वन॑म् ॥

सायणभाष्यम्

तद्च्छब्दश्रुतेर्यच्छब्दोध्याहर्तव्यः या महती बृष्टिरस्ति सो सा वृष्टिः नु क्षिप्रं चिदि- त्युपमार्थे यथा सर्वं सिंचति तथा इन्द्रः स्वा स्वानि यूथ्या यूथ्यानि मरुदादिगणलक्ष- णानि सचा सह स्वानि श्मश्रूणि च हरिता हरिद्वर्णेन सोमेन च अभिप्रुष्णुते । प्रुषप्लुष स्नेहनसेचनपूरणेष्वितिधातुः आभिमूख्येनस्थित्वा क्षिप्रं सिंचति सोमं पाययति पिबति चेत्यर्थः । अपिच सुक्षयं शोभनं यज्ञगृहं अववेति अभिगच्छति गत्वा च सुते सोमेभिषुते सति मधु मधुररसोप्रेतं सोमं पीत्वा मत्तः सन्नितिशेषः उदिद्धूनोति स्वशरीरमुत्कंपयति । तत्र दृष्टन्तः—वातोवायुः यथा वनं वृक्षसमूहं उत्कंपयति तद्वत् ॥ ४ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः