मण्डलवर्गीकरणम्

मण्डलम् १०, सूक्तम् २३, ऋक् ५

संहिता

यो वा॒चा विवा॑चो मृ॒ध्रवा॑चः पु॒रू स॒हस्राशि॑वा ज॒घान॑ ।
तत्त॒दिद॑स्य॒ पौंस्यं॑ गृणीमसि पि॒तेव॒ यस्तवि॑षीं वावृ॒धे शवः॑ ॥

पदपाठः

यः । वा॒चा । विऽवा॑चः । मृ॒ध्रऽवा॑चः । पु॒रु । स॒हस्रा॑ । अशि॑वा । ज॒घान॑ ।
तत्ऽत॑त् । इत् । अ॒स्य॒ । पौंस्य॑म् । गृ॒णी॒म॒सि॒ । पि॒ताऽइ॑व । यः । तवि॑षीम् । व॒वृ॒धे । शवः॑ ॥

सायणभाष्यम्

यइन्द्रः वाचा वाङ्मात्रेणैव विवाचः विविधवाचः स्वशत्रून् मृध्रवाचः हिंसितवाचः कृत्वेतिशेषः पुरु पुरूणि बहूनि अशिवा अशिवान्यसुखकराणि दुःखकराणीत्यर्थः सहस्रा शत्रूणां सहस्राणि जघान हन्ति अपिच यश्चेन्द्रः पितेव यथापिता पुत्रस्य तविषीं बलं अन्नप्रदानैर्ववृधे वर्धयति तथा वृष्टिद्वारेण सर्वस्य जगतः शवोबलं ववृधे वर्धयति । अस्ये न्द्रस्य तत्तदित् तत्तदेव पौंस्यं बलं गृणीमसि वयं स्तुमः । इन्द्रोयेन येन बलेन शत्रून् हन्ति तस्य तत्तद्बलं वयं स्तमइत्यर्थः ॥ ५ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः