मण्डलवर्गीकरणम्

मण्डलम् १०, सूक्तम् २३, ऋक् ६

संहिता

स्तोमं॑ त इन्द्र विम॒दा अ॑जीजन॒न्नपू॑र्व्यं पुरु॒तमं॑ सु॒दान॑वे ।
वि॒द्मा ह्य॑स्य॒ भोज॑नमि॒नस्य॒ यदा प॒शुं न गो॒पाः क॑रामहे ॥

पदपाठः

स्तोम॑म् । ते॒ । इ॒न्द्र॒ । वि॒ऽम॒दाः । अ॒जी॒ज॒न॒न् । अपू॑र्व्यम् । पु॒रु॒ऽतम॑म् । सु॒ऽदान॑वे ।
वि॒द्म । हि । अ॒स्य॒ । भोज॑नम् । इ॒नस्य॑ । यत् । आ । प॒शुम् । न । गो॒पाः । क॒रा॒म॒हे॒ ॥

सायणभाष्यम्

हे इन्द्र ते तुभ्यं सुदानवे शोभनदानस्यार्थाय विमदा विमदनामानोवयं स्तोमं स्तोत्र- विशेषंअजीजनन् जनितवन्तः कृतवन्तइत्यर्थः । अत्रपूर्वोत्तरयोरेकवाक्ययोः पुरुषव्यत्ययः । कीदृशं अपूर्व्यं अपूर्वं अन्यैः पूर्वमकृतं उत्कृष्टमित्यर्थः । पुरुतमं बहुतमं नानाप्रकारोपेत- मित्यर्थः । हि यस्मात्कारणात् हे इन्द्र इनस्येश्वरस्य अस्य ईदृशस्य तव यद्भोजनं धन- मस्ति तत् विद्म वयं जानीमः । तस्मात्कारणात् त्वदीयं तद्धनं आकरामहे वयं अस्मद- भिमुखं कुर्महे । तत्र दृष्टान्तः—पशुं न गोपाः यथा गोपालः धेनुमाह्वयन् स्वस्याभि- मुखीं करोति तद्वत् ॥ ६ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः