मण्डलवर्गीकरणम्

मण्डलम् १०, सूक्तम् २३, ऋक् ७

संहिता

माकि॑र्न ए॒ना स॒ख्या वि यौ॑षु॒स्तव॑ चेन्द्र विम॒दस्य॑ च॒ ऋषे॑ः ।
वि॒द्मा हि ते॒ प्रम॑तिं देव जामि॒वद॒स्मे ते॑ सन्तु स॒ख्या शि॒वानि॑ ॥

पदपाठः

माकिः॑ । नः॒ । ए॒ना । स॒ख्या । वि । यौ॒षुः॒ । तव॑ । च॒ । इ॒न्द्र॒ । वि॒ऽम॒दस्य॑ । च॒ । ऋषेः॑ ।
वि॒द्म । हि । ते॒ । प्रऽम॑तिम् । दे॒व॒ । जा॒मि॒ऽवत् । अ॒स्मे इति॑ । ते॒ । स॒न्तु॒ । स॒ख्या । शि॒वानि॑ ॥

सायणभाष्यम्

हे इन्द्र ते तव च विमदस्य ऋषेर्मम च नः अस्मदोद्वयोश्चेतिद्वयोर्बहुवचनं आवयोः एना एनानि सख्या सख्यानि स्तुत्यस्तोतृत्वेन यष्टव्ययष्टृत्वेन च सखिकर्माणि माकिर्वि- यौषुः केचिदपि न विश्लथयेयुः । अपिच हि यस्मात्कारणात् हे देव द्योतमानेन्द्र ते तव प्रममिं प्रकृष्टांमतिं अनुग्राहिकां बुद्धिं विद्म जानीमः । तत्र दृष्टान्तः—जामिवत् यथा भ्राता स्वभगिन्या स्नेहयुक्तां मतिं जानाति तद्वत् तस्मात्कारणात् अस्मे अस्माकं ते तव च सख्या सख्यानि शिवानि सन्तु मंगलानि भवन्तु अनपायानीत्यर्थः ॥ ७ ॥

इन्द्रसोममिति षळृचमष्टमं सूक्तं चतुर्थ्याद्यास्तिस्रोनुष्टुभोश्विदेवत्याः आदितस्तिस्रऎन्द्र्यः आस्तारपंक्तिच्छन्दकाः । आदितोद्वौ गायत्रौ ततोद्वौ जागतौ सा आस्तारपंक्तिः । ऋषिः पूर्ववत् । तथाचानुक्रान्तं—इन्द्रसोमंषळास्तारपांक्तंत्वाश्विन्योन्त्यास्तिस्रोनुष्टुभइति । गतो- विनियोगः ।

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः