मण्डलवर्गीकरणम्

मण्डलम् १०, सूक्तम् २४, ऋक् २

संहिता

त्वां य॒ज्ञेभि॑रु॒क्थैरुप॑ ह॒व्येभि॑रीमहे ।
शची॑पते शचीनां॒ वि वो॒ मदे॒ श्रेष्ठं॑ नो धेहि॒ वार्यं॒ विव॑क्षसे ॥

पदपाठः

त्वाम् । य॒ज्ञेभिः॑ । उ॒क्थैः । उप॑ । ह॒व्येभिः॑ । ई॒म॒हे॒ ।
शची॑ऽपते । श॒ची॒ना॒म् । वि । वः॒ । मदे॑ । श्रेष्ठ॑म् । नः॒ । धे॒हि॒ । वार्य॑म् । विव॑क्षसे ॥

सायणभाष्यम्

हे इन्द्र वयं यज्ञेभिर्यज्ञैः सोमयागादिभिः उक्थैः शस्त्रलक्षणैः स्तोत्रैः हव्येभिर्हव्यैः पु- रोडाशादिभिश्च उपेत्युपसर्गश्रुतेर्योग्यपदाध्याहारः त्वामुपेत्य ईमहे अभिलषितं धनं याचा- महे । अतः हे शचीपते कर्मणां पालक यतः त्वं केषांचित्कर्मणां पालकोभवसि इति न किंतु शचीनां सर्वेषां कर्मणां पालकोभवसीत्यर्थः । एवं याचितस्त्वं नोस्मभ्यं वार्यं वर- णीयं श्रेष्ठं प्रशस्यतमं पश्बादिधनं धेहि देहि । शिष्टं स्पष्टं ॥ २ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १०