मण्डलवर्गीकरणम्

मण्डलम् १०, सूक्तम् २४, ऋक् ३

संहिता

यस्पति॒र्वार्या॑णा॒मसि॑ र॒ध्रस्य॑ चोदि॒ता ।
इन्द्र॑ स्तोतॄ॒णाम॑वि॒ता वि वो॒ मदे॑ द्वि॒षो नः॑ पा॒ह्यंह॑सो॒ विव॑क्षसे ॥

पदपाठः

यः । पति॑म् । वार्या॑णाम् । असि॑ । र॒ध्रस्य॑ । चो॒दि॒ता ।
इन्द्र॑ । स्तो॒तॄ॒णाम् । अ॒वि॒ता । वि । वः॒ । मदे॑ । द्वि॒षः । नः॒ । पा॒हि॒ । अंह॑सः । विव॑क्षसे ॥

सायणभाष्यम्

हे इन्द्र यस्त्वं वार्याणां वरणीयानां धनानां पतिरसि स्वामी भवसि । रध्रस्य राधक स्य स्तोतुश्चो दिता धनदानेन कर्मसु नियोक्ता च भवसि । किंच हे इंद्र यस्त्वं स्तोतॄणां अविता रक्षकोसि सत्वं विवोमदे तव विविधे सोमजन्यमदे सति द्विषोद्वेष्टुः सकाशात् नोस्मान् पाहि रक्ष अंहसः पापाच्च रक्ष । कस्मादेवमुच्यसे यस्मात्त्वं विवक्षसे महान् भवसि ॥ ३ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १०