मण्डलवर्गीकरणम्

मण्डलम् १०, सूक्तम् २४, ऋक् ४

संहिता

यु॒वं श॑क्रा माया॒विना॑ समी॒ची निर॑मन्थतम् ।
वि॒म॒देन॒ यदी॑ळि॒ता नास॑त्या नि॒रम॑न्थतम् ॥

पदपाठः

यु॒वम् । श॒क्रा॒ । मा॒या॒ऽविना॑ । स॒मी॒ची इति॑ स॒म्ऽई॒ची । निः । अ॒म॒न्थ॒त॒म् ।
वि॒ऽम॒देन॑ । यत् । ई॒ळि॒ता । नास॑त्या । निः॒ऽअम॑न्थतम् ॥

सायणभाष्यम्

हे शक्रा शक्रौ शत्रुवधादिकर्मसु समर्थौ हे अश्विनौ मायाविना मायाविनौ प्रज्ञावंतौ शत्रुवंचनकुशलौ वा युवं युवां समीची परस्परं संगतौ निरमन्थतं अग्निं निरमश्नीतम् । अ- श्विनावध्वर्यूइतिब्राह्मणोक्तत्वात् । अग्निमंथनमप्यश्विनोरुपपन्नमिति । कदाश्विनौ निर्मथित- वंतौ उच्यते—यद्यदा नासत्या नासत्यौ युवां विमदेन मया ईळिता ईळितौ स्तुतौ निर मंथतं निरमश्नीतं तदानीं युवां परस्परं संगतौ निर्मथितवन्तौ स्थइत्यर्थः ॥ ४ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १०