मण्डलवर्गीकरणम्

मण्डलम् १०, सूक्तम् २४, ऋक् ६

संहिता

मधु॑मन्मे प॒राय॑णं॒ मधु॑म॒त्पुन॒राय॑नम् ।
ता नो॑ देवा दे॒वत॑या यु॒वं मधु॑मतस्कृतम् ॥

पदपाठः

मधु॑ऽमत् । मे॒ । प॒रा॒ऽअय॑नम् । मधु॑ऽमत् । पुनः॑ । आऽअय॑नम् ।
ता । नः॒ । दे॒वा॒ । दे॒वत॑या । यु॒वम् । मधु॑ऽमतः । कृ॒त॒म् ॥

सायणभाष्यम्

हे अश्विनौ मे मदीयं परायणं गृहात्परागमनं मधुमत् अत्र रसविशेषवाचिना मधु- श्ब्देन तद्गता प्रीतिर्लक्ष्यते युवयोः प्रसादात्प्रीतियुक्तं भवत्वितिशेषः । पुनः आयनं गृहं प्रत्यागमनं मधुमत्प्रीतियुक्तं भवतु । अपिच हे देवा देवौ द्योतमानौ ता तौ युवं युवां नोस्मान् मधुमतः प्रीतियुक्तान् कृतं कुरुतम् । केनेति उच्यते—देवतया देवत्वेन अणिमा- दिदेवतैश्वर्ययोगेनेत्यर्थः ॥ ६ ॥

भद्रमित्येकादशर्चं नवमं सूक्तं तुह्यादिपरिभाषयेदमप्यास्तारपाङ्क्तं सोमदेवताकं ऋषि श्चान्यस्मादितिपरिभाषया प्राजापत्यऎन्द्रोवा विमदोवा वसुक्रोवसुकृद्वा ऋषिः । तथाचानु- क्रान्तम् भद्रमेकादशसौम्यमिति । गतोविनियोगः ।

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १०