मण्डलवर्गीकरणम्

मण्डलम् १०, सूक्तम् २५, ऋक् १

संहिता

भ॒द्रं नो॒ अपि॑ वातय॒ मनो॒ दक्ष॑मु॒त क्रतु॑म् ।
अधा॑ ते स॒ख्ये अन्ध॑सो॒ वि वो॒ मदे॒ रण॒न्गावो॒ न यव॑से॒ विव॑क्षसे ॥

पदपाठः

भ॒द्रम् । नः॒ । अपि॑ । वा॒त॒य॒ । मनः॑ । दक्ष॑म् । उ॒त । क्रतु॑म् ।
अध॑ । ते॒ । स॒ख्ये । अन्ध॑सः । वि । वः॒ । मदे॑ । रण॑न् । गावः॑ । न । यव॑से । विव॑क्षसे ॥

सायणभाष्यम्

हे सोम त्वं नोस्मदीयं मनः भद्र्ं कल्याण तय गमय अस्माकं मनः शुभसंकल्पं कु- र्वित्यर्थः । तथा दक्षमुत कक्षमपि दक्षवृद्धौ वृद्ध सवव्यापिनं अन्तरात्मानमपि भद्रं शुभ- कारिलक्षणं प्रापय अस्माकमन्तरात्मानं शुभकारिणं कुर्वित्यर्थः । उत अपिच क्रतुं प्रज्ञानं भद्रं शुभाध्यवसायलक्षणं प्रापय शुभाध्यवसायिनं कुर्वित्यर्थः । अध अथ स्तोतारः ते तव सख्ये स्तुत्यस्तोतृत्वेज्ययष्टृत्वलक्षणे सखिकर्मणि रणन् समंताम् । तत्र दृष्टांतः—गावोन यव- से । यथा धेनवोघासे रमंते प्रीतिं कुर्वंति तद्वत् । कस्मिन् सति अन्धसः सोमाख्यस्यान्नस्य संबंधिनि वः तव विमदे विविधसोमजन्यमदनिमित्ते सति । कस्मादेवं यस्माद्विवक्षसे महान् भवसि ॥ १ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  ११