मण्डलवर्गीकरणम्

मण्डलम् १०, सूक्तम् २५, ऋक् २

संहिता

हृ॒दि॒स्पृश॑स्त आसते॒ विश्वे॑षु सोम॒ धाम॑सु ।
अधा॒ कामा॑ इ॒मे मम॒ वि वो॒ मदे॒ वि ति॑ष्ठन्ते वसू॒यवो॒ विव॑क्षसे ॥

पदपाठः

हृ॒दि॒ऽस्पृशः॑ । ते॒ । आ॒स॒ते॒ । विश्वे॑षु । सो॒म॒ । धाम॑ऽसु ।
अध॑ । कामाः॑ । इ॒मे । मम॑ । वि । वः॒ । मदे॑ । वि । ति॒ष्ठ॒न्ते॒ । व॒सु॒ऽयवः॑ । विव॑क्षसे ॥

सायणभाष्यम्

हे सोम ते तव हृदिस्पृशः स्तुतिभिः हृदयं स्पृशंतऋत्विजः विश्वॆषु धामसु सर्वेषु स्तानेषु आसते त्वां स्तुवंतस्तिष्ठन्ति । अध अथ इमे ईदृग्भूताः कामाः अभिलाषाः वि- वोमदे तव सोमपानजन्यविविधे मदनिमित्ते सति सोमयागार्थमित्यर्थः । वसूयवोवसुका- माः धनमिच्छन्तः मम हृदयादितिशेषः वितिष्ठन्ते उत्तिष्ठन्ति क्र्मादेवं यस्माद्विवक्षसे महान् भवसि ॥ २ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  ११