मण्डलवर्गीकरणम्

मण्डलम् १०, सूक्तम् २५, ऋक् ३

संहिता

उ॒त व्र॒तानि॑ सोम ते॒ प्राहं मि॑नामि पा॒क्या॑ ।
अधा॑ पि॒तेव॑ सू॒नवे॒ वि वो॒ मदे॑ मृ॒ळा नो॑ अ॒भि चि॑द्व॒धाद्विव॑क्षसे ॥

पदपाठः

उ॒त । व्र॒तानि॑ । सो॒म॒ । ते॒ । प्र । अ॒हम् । मि॒ना॒मि॒ । पा॒क्या॑ ।
अध॑ । पि॒ताऽइ॑व । सू॒नवे॑ । वि । वः॒ । मदे॑ । मृ॒ळ । नः॒ । अ॒भि । चि॒त् । व॒धात् । विव॑क्षसे ॥

सायणभाष्यम्

उतापिच हे सोम अहं ते तुभ्यं व्रतानि यागादिकर्माणि पाक्या परिपक्वया सर्वार्थ- दर्शिन्या प्रज्ञया । यद्वा पाक्येति व्रतविशेषणमेतत् पाक्यानि परिपक्वानि परिनिष्ठितानी- त्यर्थः । प्रमिनामि प्रहिनस्मि प्रकर्षेण करोमीत्यर्त्यः । अधाथ यागानंतरं विवोमदे तव विविधे मदे सति नोस्मान् मृळ सुखय अभिचिद्वधात् आभिमुख्येन् स्थित्वा शत्र्वादिव- धाच्च अस्मान् पालयेतिशेषः । तत्र दृष्टांतः—पिते वसूनवे । यथा पिता पुत्रार्थं सुखयति सर्वस्मात् पुत्रमेव पालयति तद्वत् । यस्मात्सुख्यमानः पाल्यमानश्चाहं युष्मदर्थं पुनःपुनः सोमयागं करोमि तस्मान्मां सुखय पालय चेत्यर्थः । कस्मादेवमुच्यसे यस्मात्त्वं विवक्षसे महान् भवसि महान्तश्च भक्तान् सुखयन्ति पालयन्ति चेति यावत् ॥ ३ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  ११