मण्डलवर्गीकरणम्

मण्डलम् १०, सूक्तम् २५, ऋक् ५

संहिता

तव॒ त्ये सो॑म॒ शक्ति॑भि॒र्निका॑मासो॒ व्यृ॑ण्विरे ।
गृत्स॑स्य॒ धीरा॑स्त॒वसो॒ वि वो॒ मदे॑ व्र॒जं गोम॑न्तम॒श्विनं॒ विव॑क्षसे ॥

पदपाठः

तव॑ । त्ये । सो॒म॒ । शक्ति॑ऽभिः । निऽका॑मासः । वि । ऋ॒ण्वि॒रे॒ ।
गृत्स॑स्य । धीराः॑ । त॒वसः॑ । वि । वः॒ । मदे॑ । व्र॒जम् । गोऽम॑न्तम् । अ॒श्विन॑म् । विव॑क्षसे ॥

सायणभाष्यम्

निकामासः दृष्टादृष्टफले नियतकामाः त्ये ते प्रसिद्धाधीरा मेधाविनऋत्विजः शक्ति- भिर्यागादिकर्मभिः सह हे सोम गृत्सस्य मेधाविनः तवसः महतस्तव व्यृणिवरे विविधाः स्तुतीर्गमयन्ति प्रापयन्ति कुर्वन्तीत्यर्थः । अतः कारणात् विवोमदे तव सोमपानजन्यवि- विधमदनिमित्तभूते सति अस्मभ्यं गोमंतं गोसहितं अश्विनं अश्वसहितं व्रजं गोष्ठं साम- र्थ्यान्मन्दुरा लभ्यते मन्दुरां च देहीतिशॆषः । कस्मादेवमुच्यसे यस्माद्विवक्षसे महान् भवसि ॥ ५ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  ११