प॒शुं नः॑ सोम रक्षसि पुरु॒त्रा विष्ठि॑तं॒ जग॑त् ।
स॒माकृ॑णोषि जी॒वसे॒ वि वो॒ मदे॒ विश्वा॑ स॒म्पश्य॒न्भुव॑ना॒ विव॑क्षसे ॥
प॒शुम् । नः॒ । सो॒म॒ । र॒क्ष॒सि॒ । पु॒रु॒ऽत्रा । विऽस्थि॑तम् । जग॑त् ।
स॒म्ऽआकृ॑णोषि । जी॒वसे॑ । वि । वः॒ । मदे॑ । विश्वा॑ । स॒म्ऽपश्य॑न् । भुव॑ना । विव॑क्षसे ॥
हे सोम त्वं नोस्मदीयं पशुं देवयागार्थमुपाकृतं रक्षसि पालयसि न केवलं पशुं किंतु पुरुत्रा बहुधा विष्ठितं सुरनरतिर्यग्योन्यादिभावेनावस्थितं जगच्च रक्षसि । किंच सत्वं समाकृणोषि जगतोवृत्तिं सम्यगाकरोषीत्यर्थ । किमर्थं जीवसे जीवनार्थम् । किं कुर्वन् विश्वा भुवना विश्वानि भुवनानि भूतजातानि संपश्यन् । किमर्थमेतदादिकं सर्वं करोषि । उच्यते—विवोमदे युष्माकंसर्वेषां देवानां विविधहविर्जन्यतृप्त्यर्थम् । अक्तंहि – इतः प्रदानमुतदेवाउपजीव न्तीति । अतएव त्वं विवक्षसे महन् भवसि महतामेतत्सर्वमु- चितमित्यर्थः ॥ ६ ॥