मण्डलवर्गीकरणम्

मण्डलम् १०, सूक्तम् २५, ऋक् ७

संहिता

त्वं नः॑ सोम वि॒श्वतो॑ गो॒पा अदा॑भ्यो भव ।
सेध॑ राज॒न्नप॒ स्रिधो॒ वि वो॒ मदे॒ मा नो॑ दु॒ःशंस॑ ईशता॒ विव॑क्षसे ॥

पदपाठः

त्वम् । नः॒ । सो॒म॒ । वि॒श्वतः॑ । गो॒पाः । अदा॑भ्यः । भ॒व॒ ।
सेध॑ । रा॒ज॒न् । अप॑ । स्रिधः॑ । वि । वः॒ । मदे॑ । मा । नः॒ । दुः॒ऽशंसः॑ । ई॒श॒त॒ । विव॑क्षसे ॥

सायणभाष्यम्

हे सोम अदाभ्यः केनाप्यहिंस्यस्त्वं विश्वतः सर्वतः नोस्माकं गोपाः रक्षिता भव । अ- पिच हे राजन् राजमान सोम त्वं स्रिधः अस्माकमुपक्षपयितॄन् अपसेध अस्मत्तः अपग- मय अपजहि च नोस्माकं दुःशंसः विद्यमानानां अविद्यमानां कर्मणां शंसिता प्रख्यापयि ता माईशत ईशिता माभूत् तव प्रसादादस्माकमपवक्ता कश्चिदपि माभूदित्यर्थः । किमर्थ- मेतत्सर्वंप्रार्थ्यसे विवोमदे तव विविधसोमादिहविर्जन्यतृप्त्यर्थम् । अतोविवक्षसे त्वं महान् भवसि ॥ ७ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १२