मण्डलवर्गीकरणम्

मण्डलम् १०, सूक्तम् २५, ऋक् ८

संहिता

त्वं नः॑ सोम सु॒क्रतु॑र्वयो॒धेया॑य जागृहि ।
क्षे॒त्र॒वित्त॑रो॒ मनु॑षो॒ वि वो॒ मदे॑ द्रु॒हो नः॑ पा॒ह्यंह॑सो॒ विव॑क्षसे ॥

पदपाठः

त्वम् । नः॒ । सो॒म॒ । सु॒ऽक्रतुः॑ । व॒यः॒ऽधेया॑य । जा॒गृ॒हि॒ ।
क्षे॒त्र॒वित्ऽत॑रः । मनु॑षः । वि । वः॒ । मदे॑ । द्रु॒हः । नः॒ । पा॒हि॒ । अंह॑सः । विव॑क्षसे ॥

सायणभाष्यम्

हे सोम सुक्रतुः शोभनप्रज्ञः क्षेत्रवित्तरः क्षेत्रस्यातिशयेन लंभकः त्वं नोस्माकं वयोधे- याय अन्नदानाय जागृहि । किंच द्रुहः द्रोग्धुः मनुषोमनुष्याच्छत्रोः सकाशान्नोस्मान्पाहिर- क्ष अंहसः पापाच्च नोस्मान्पाहि । किमर्थं विवोमदे तव सोमादिहविर्जन्यतृप्त्यर्थमित्यर्थः । विवक्षसे त्वं महान् भवसि ॥ ८ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १२