मण्डलवर्गीकरणम्

मण्डलम् १०, सूक्तम् २५, ऋक् ९

संहिता

त्वं नो॑ वृत्रहन्त॒मेन्द्र॑स्येन्दो शि॒वः सखा॑ ।
यत्सीं॒ हव॑न्ते समि॒थे वि वो॒ मदे॒ युध्य॑मानास्तो॒कसा॑तौ॒ विव॑क्षसे ॥

पदपाठः

त्वम् । नः॒ । वृ॒त्र॒ह॒न्ऽत॒म॒ । इन्द्र॑स्य । इ॒न्दो॒ इति॑ । शि॒वः । सखा॑ ।
यत् । सी॒म् । हव॑न्ते । स॒म्ऽइ॒थे । वि । वः॒ । मदे॑ । युध्य॑मानाः । तो॒कऽसा॑तौ । विव॑क्षसे ॥

सायणभाष्यम्

हे वृत्रहन्तम शत्रूणामतिशयेन हंतः हे इन्दो हे सोम यस्त्वं इन्द्रस्य शिवः सुखकरः सखा मित्रभूतोसि सत्वं नोस्मान्पाहीतिशेषः । कदेति उच्यते—तोकसातौ तोकइत्यपत्यनाम सातिः षणुदाने इत्यस्माद्धातोरूपं दीयतेस्मिन्नपत्यमितितोकसातिः संग्रामविशेषणं तस्मि- न् अतिमहतीत्यर्थः समिथे संग्रामे युद्धमानाः युद्धं कुर्वाणाः शत्रुजनाः सीं सर्वतः यद्यदा हवन्ते युद्धार्थमस्मानाह्वयन्ति तदास्माकं रक्षिताभवेत्यर्थः । कस्मिन्निमित्ते विवोमदे तव विविधहविर्जन्यहर्षनिमित्ते । विवक्षसे त्वं महान् भवसि महतां हि पालनं युक्तमेवेति ॥ ९ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १२