मण्डलवर्गीकरणम्

मण्डलम् १०, सूक्तम् २६, ऋक् १

संहिता

प्र ह्यच्छा॑ मनी॒षा स्पा॒र्हा यन्ति॑ नि॒युतः॑ ।
प्र द॒स्रा नि॒युद्र॑थः पू॒षा अ॑विष्टु॒ माहि॑नः ॥

पदपाठः

प्र । हि । अच्छ॑ । म॒नी॒षाः । स्पा॒र्हाः । यन्ति॑ । नि॒ऽयुतः॑ ।
प्र । द॒स्रा । नि॒युत्ऽर॑थः । पू॒षा । अ॒वि॒ष्टु॒ । माहि॑नः ॥

सायणभाष्यम्

हि यस्मात्कारणात् मनीषाः अस्मदीयाः स्तुतिलक्षणावाचः अच्छ गुणग्रहणद्वारेण पू- षणमभिप्राप्तुं प्रयन्ति प्रकर्षेण गच्छन्ति । कीदृश्यः स्पार्हाः सर्वगुणोपेतत्वात् स्पृहणीयाः नियुतः नियमनाद्वा नियोजनाद्वेत्येतद्रुपं अस्माभिर्नियमितावानियुतावा उच्चारिताइत्यर्थः एतत् ज्ञात्वा उपकारस्य प्रत्युपकारं कर्तुं दस्रा दर्शनीयः नियुद्रथः गमनाय सर्वदानियुत- रथोनियुक्तरथोवा माहिनः महान् पूषा देवः प्राविष्टु अस्मान्प्रकर्षेणरक्षतु । यद्वा दस्रा दंसयितारौ कर्मणामुपक्षपयितारौ परिसमापयितारावित्यर्थः एवं भूतौ पत्नीयजमानौ पूषा रक्षत्विति योज्यम् ॥ १ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १३