मण्डलवर्गीकरणम्

मण्डलम् १०, सूक्तम् २६, ऋक् ३

संहिता

स वे॑द सुष्टुती॒नामिन्दु॒र्न पू॒षा वृषा॑ ।
अ॒भि प्सुरः॑ प्रुषायति व्र॒जं न॒ आ प्रु॑षायति ॥

पदपाठः

सः । वे॒द॒ । सु॒ऽस्तु॒ती॒नाम् । इन्दुः॑ । न । पू॒षा । वृषा॑ ।
अ॒भि । प्सुरः॑ । प्रु॒षा॒य॒ति॒ । व्र॒जम् । नः॒ । आ । प्रु॒षा॒य॒ति॒ ॥

सायणभाष्यम्

यउक्तगुणः सपूषा सुष्टुतीनां शोभनस्तोत्राणां स्वरूपमितिशेषः वेद जानाति अपिच इन्दुर्न सोमइव तथा अयं पूषा वृषा कामानां वर्षिता भवति । प्सुरः रूपवान् सन् अभि अस्मानभिलक्ष्य प्रुषायति सिंचति । तथा नोस्माकं व्रजं गोष्ठं च आप्रुषायति आभिमुख्ये- न सिंचति अस्मभ्यं हिरण्यपश्वादिकं ददातीत्यर्थः ॥ ३ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १३