मण्डलवर्गीकरणम्

मण्डलम् १०, सूक्तम् २६, ऋक् ५

संहिता

प्रत्य॑र्धिर्य॒ज्ञाना॑मश्वह॒यो रथा॑नाम् ।
ऋषि॒ः स यो मनु॑र्हितो॒ विप्र॑स्य यावयत्स॒खः ॥

पदपाठः

प्रति॑ऽअर्धिः । य॒ज्ञाना॑म् । अ॒श्व॒ऽह॒यः । रथा॑नाम् ।
ऋषिः॑ । सः । यः । मनुः॑ऽहितः । विप्र॑स्य । य॒व॒य॒त्ऽस॒खः ॥

सायणभाष्यम्

ऋषिः सर्वस्य द्रष्टा सपूषा यज्ञानां प्रत्यर्धिः अर्धभाक् रथानां संबंधिभिः अश्वहयः ह- यतिर्गतिकर्मा अश्वैर्गमनशीलोभवति अश्वयुक्तेन रथेन सदागन्तेत्यर्थः । मनुर्हितः मनुष्यहि तोयः विप्रस्य मेधाविनः स्तोतुः यावयत्सखः शत्रूणां पृथक्कर्ता सखा भवसि सइति पूर्वेण संबंधः ॥ ५ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १३