मण्डलवर्गीकरणम्

मण्डलम् १०, सूक्तम् २६, ऋक् ६

संहिता

आ॒धीष॑माणाया॒ः पति॑ः शु॒चाया॑श्च शु॒चस्य॑ च ।
वा॒सो॒वा॒योऽवी॑ना॒मा वासां॑सि॒ मर्मृ॑जत् ॥

पदपाठः

आ॒ऽधीष॑माणायाः । पतिः॑ । शु॒चायाः॑ । च॒ । शु॒चस्य॑ । च॒ ।
वा॒सः॒ऽवा॒यः । अवी॑नाम् । आ । वासां॑सि । मर्मृ॑जत् ॥

सायणभाष्यम्

आधीषमाणायाआत्मार्थं धीयमानायाः शुचायाश्च दीप्तायाः अजायाश्च पतिः स्वामी न केवलं स्त्रीमात्रस्य किंतु शुचस्य दीप्तस्य पुंपशोश्च पतिरित्यर्थः एवंभूतः पूषा देवः अवीनामूरणानां संबंधिरोमभिः वासोवायः दशापवित्रादीनि वस्त्राणि प्रेरयन् वासांसि रजकशोध्यानि तानि वस्त्राणि आमर्मृजत् आसमंतात्प्रकाशोष्णाभ्यां शोधयन् भवति ॥ ६ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १४