मण्डलवर्गीकरणम्

मण्डलम् १०, सूक्तम् २६, ऋक् ७

संहिता

इ॒नो वाजा॑नां॒ पति॑रि॒नः पु॑ष्टी॒नां सखा॑ ।
प्र श्मश्रु॑ हर्य॒तो दू॑धो॒द्वि वृथा॒ यो अदा॑भ्यः ॥

पदपाठः

इ॒नः । वाजा॑नाम् । पतिः॑ । इ॒नः । पु॒ष्टी॒नाम् । सखा॑ ।
प्र । श्मश्रु॑ । ह॒र्य॒तः । दू॒धो॒त् । वि । वृथा॑ । यः । अदा॑भ्यः ॥

सायणभाष्यम्

इनईश्वरः पूषा वाजानां हविरादीनां सर्वेषामन्नानां पतिः स्वामी इनः प्रभुः पुष्टीनां सर्वेषां प्राणिनां स्वभूतानां पोषकाणां करणे सखा मित्रभूतः सर्वस्योपकारित्वात् । किञ्च हर्यताः कामयमानस्य यजमानस्य स्वभूतं सोमं पिबन्निति शेषः । श्मश्रु श्मश्रुणि वृथा अनायासेन प्रयत्नेन प्रविदूधोत् प्रकर्षेण विविधं कंपयति । यः पूषा अदाभ्यः शत्रुभिरहिं- स्यः सइति पूर्वेण संबंधः ॥ ७ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १४