मण्डलवर्गीकरणम्

मण्डलम् १०, सूक्तम् २६, ऋक् ८

संहिता

आ ते॒ रथ॑स्य पूषन्न॒जा धुरं॑ ववृत्युः ।
विश्व॑स्या॒र्थिन॒ः सखा॑ सनो॒जा अन॑पच्युतः ॥

पदपाठः

आ । ते॒ । रथ॑स्य । पू॒ष॒न् । अ॒जाः । धुर॑म् । व॒वृ॒त्युः॒ ।
विश्व॑स्य । अ॒र्थिनः॑ । सखा॑ । स॒नः॒ऽजाः । अन॑पऽच्युतः ॥

सायणभाष्यम्

हे पूषन् देव ते त्वदीयस्य रथस्य धुरं अजावाहनत्वेन आववृत्युः आवर्त्ययन्ति आव- हन्तीत्यर्थः । यस्त्वं विश्वस्य सर्वस्यार्थिनोयाचकस्य अभिलषितार्थप्रदातृत्वात् सखा सखि- भूतः सनोजाः चिरजातः अनपच्युतः स्वाधिकारादनपगतः तस्य ते रथमिति संबंधः ॥ ८ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १४