मण्डलवर्गीकरणम्

मण्डलम् १०, सूक्तम् २७, ऋक् ३

संहिता

नाहं तं वे॑द॒ य इति॒ ब्रवी॒त्यदे॑वयून्त्स॒मर॑णे जघ॒न्वान् ।
य॒दावाख्य॑त्स॒मर॑ण॒मृघा॑व॒दादिद्ध॑ मे वृष॒भा प्र ब्रु॑वन्ति ॥

पदपाठः

न । अ॒हम् । तम् । वे॒द॒ । यः । इति॑ । ब्रवी॑ति । अदे॑वऽयून् । स॒म्ऽअर॑णे । ज॒घ॒न्वान् ।
य॒दा । अ॒व॒ऽअख्य॑त् । स॒म्ऽअर॑णम् । ऋघा॑वत् । आत् । इत् । ह॒ । मे॒ । वृ॒ष॒भा । प्र । ब्रु॒व॒न्ति॒ ॥

सायणभाष्यम्

योजनः अदेवयून् देवान् कामयमानान् देवद्विषोराक्षसादीन् समरणे संग्रामे जघन्वान् अहं हतवानिति ब्रवीति वदति तं तादृशं मद्यतिरिक्तं जनं अहं न वेद न जानामि । मत्तोन्यः संग्रामे शत्रूणां हन्ता नास्तीत्यर्थः । किञ्च यदा यस्मिन् काले समरणं संग्रामं अवाख्यत् अवाकृतं न्यक्कृतमहं पश्यामि । कीदृशं ऋघावत् ऋघावन्तं परप्सरं हिंसायुक्तं अत्यंतक्रूरमित्यर्थः । आत् तदानीं मे मम स्वभूतानि वृशभा वृषभकर्माणि दर्पतोवृषभस्ये व विक्रांतकर्माणि प्रब्रुवन्ति विद्वज्जनाइतिशॆषः इद्धेतीमौ पदपूरणौ ॥ ३ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १५