मण्डलवर्गीकरणम्

मण्डलम् १०, सूक्तम् २७, ऋक् ४

संहिता

यदज्ञा॑तेषु वृ॒जने॒ष्वासं॒ विश्वे॑ स॒तो म॒घवा॑नो म आसन् ।
जि॒नामि॒ वेत्क्षेम॒ आ सन्त॑मा॒भुं प्र तं क्षि॑णां॒ पर्व॑ते पाद॒गृह्य॑ ॥

पदपाठः

यत् । अज्ञा॑तेषु । वृ॒जने॑षु । आस॑म् । विश्वे॑ । स॒तः । म॒घऽवा॑नः । मे॒ । आ॒स॒न् ।
जि॒नामि॑ । वा॒ । इत् । क्षेमे॑ । आ । सन्त॑म् । आ॒भुम् । प्र । तम् । क्षि॒णा॒म् । पर्व॑ते । पा॒द॒ऽगृह्य॑ ॥

सायणभाष्यम्

यद्यदा अज्ञातेषु शरीरवस्त्रास्त्रबलादिभिः अपरिज्ञातेषु वृजनेषु संग्रामेषु आसं अहं यु- द्धार्थमुपविशामि तदा विश्वे सर्वे मघवानो हविर्लक्षणतपोलक्षणधनवन्तऋषयः सतः एवं वर्तमानस्य मे ममेन्द्रस्य समीपे आसन् उपविशन्ति मम वीर्यवृध्यर्थं मां स्तुवन्तस्तिष्ठन्ती त्यर्थः । अपिच क्षेमे जगत्पालने निमित्ते आसंतं आकारोभीत्यस्यार्थे वर्तते सर्वमभितः संतं आभुं महान्तं शत्रुं जिनामि वा विनाशयाम्येव नाव विनाशे संशयः इदितिपूरणः । तं महान्तं शत्रुं पादगृह्य पादौ गृहीत्वा पर्वते गिरौ प्रदक्षिणां प्रहितवानस्मि प्रक्षिपामि । ॥ ४ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १५