मण्डलवर्गीकरणम्

मण्डलम् १०, सूक्तम् २७, ऋक् ६

संहिता

दर्श॒न्न्वत्र॑ शृत॒पाँ अ॑नि॒न्द्रान्बा॑हु॒क्षद॒ः शर॑वे॒ पत्य॑मानान् ।
घृषुं॑ वा॒ ये नि॑नि॒दुः सखा॑य॒मध्यू॒ न्वे॑षु प॒वयो॑ ववृत्युः ॥

पदपाठः

दर्श॑न् । नु । अत्र॑ । शृ॒त॒ऽपान् । अ॒नि॒न्द्रान् । बा॒हु॒ऽक्षदः॑ । शर॑वे । पत्य॑मानान् ।
घृषु॑म् । वा॒ । ये । नि॒नि॒दुः । सखा॑यम् । अधि॑ । ऊं॒ इति॑ । नु । ए॒षु॒ । प॒वयः॑ । व॒वृ॒त्युः॒ ॥

सायणभाष्यम्

अत्रास्मिन् जगति श्रृतपान् श्रृतानि पक्वानि सोमदिहवींष्यपहृत्य पिबतः अनिन्द्रान् इ- न्द्रेण मया वर्जितान् बाहुक्षदः बाहुभिर्यजमानान् शकलीकुर्वतः शरवे हिंसार्थं पत्यमाना- न् अभिपततो॓ऽसुरादीन् नु क्षिप्रं दर्शं अहमिन्द्रः पश्यामि एवं भूतेष्वेषु अधि उपरि पवयोमदीयान्यायुधानि ववृत्युः वर्तन्ते । वाशब्दः समुच्चये । घृषुं महान्तं च सखायं सखि- वत्प्रियं हितस्य कर्तारं मां ये निनिदुः निंदंति उइति समुच्चये एषु चोपरिमदीयान्यायु- धानि नुक्षिप्रं वर्तन्ते ॥ ६ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १६