मण्डलवर्गीकरणम्

मण्डलम् १०, सूक्तम् २७, ऋक् ८

संहिता

गावो॒ यवं॒ प्रयु॑ता अ॒र्यो अ॑क्ष॒न्ता अ॑पश्यं स॒हगो॑पा॒श्चर॑न्तीः ।
हवा॒ इद॒र्यो अ॒भित॒ः समा॑य॒न्किय॑दासु॒ स्वप॑तिश्छन्दयाते ॥

पदपाठः

गावः॑ । यव॑म् । प्रऽयु॑ताः । अ॒र्यः । अ॒क्ष॒न् । ताः । अ॒प॒श्य॒म् । स॒हऽगो॑पाः । चर॑न्तीः ।
हवाः॑ । इत् । अ॒र्यः । अ॒भितः॑ । सम् । आ॒य॒न् । किय॑त् । आ॒सु॒ । स्वऽप॑तिः । छ॒न्द॒या॒ते॒ ॥

सायणभाष्यम्

गावोधेनवः प्रयुताः प्रकर्षेण मिश्रिताः परस्परेण सहभूताः यवं मद्वृष्टिजनितयवादि घासं अक्षन् अदंति भक्षयन्ति अर्यः सर्वस्य स्वाम्यहं तागाः अपश्यं पश्यामि । कीदृशीः सहगोपाः पशुपालकेन सहिताः चरन्तीः घासं भक्षयन्तीः एवंभूतास्ताः परया प्रीत्या पश्यामीत्यर्थः । किञ्च हवाः वाहनदोहनार्थमाह्वानार्हाः गावः अर्यः द्वितीयार्थे प्रथमा अर्यं स्वामिनं प्रति अभितः सर्वतः समायन् समित्येकीभावे एकीभूय आगच्छन्ति । इदि- तिपूरणः । आगतास्वासु गोषु स्वपतिः स्वानां गवां स्वामी कियत् क्षीरं छन्दयाते दोग्धुं कामयते मदर्थं दोग्ध्रीरित्यर्थः । गावआशिरं दुहे इतिवचनात् ॥ ८ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १६