प॒त्तो ज॑गार प्र॒त्यञ्च॑मत्ति शी॒र्ष्णा शिर॒ः प्रति॑ दधौ॒ वरू॑थम् ।
आसी॑न ऊ॒र्ध्वामु॒पसि॑ क्षिणाति॒ न्य॑ङ्ङुत्ता॒नामन्वे॑ति॒ भूमि॑म् ॥
प॒त्तः । ज॒गा॒र॒ । प्र॒त्यञ्च॑म् । अ॒त्ति॒ । शी॒र्ष्णा । शिरः॑ । प्रति॑ । द॒धौ॒ । वरू॑थम् ।
आसी॑नः । ऊ॒र्ध्वाम् । उ॒पसि॑ । क्षि॒णा॒ति॒ । न्य॑ङ् । उ॒त्ता॒नाम् । अनु॑ । ए॒ति॒ । भूमि॑म् ॥
अत्रादित्यात्मनेन्द्रः स्तूयतेतदंशत्वात् आदित्यरूपीन्द्रः पत्तः रश्म्याख्यैः पादैः जगार वृष्टिलक्षणमुदकं गिरति गृह्णाति वा । गृहीत्वा च प्रत्यञ्चं आत्मानं प्रतिगतमुदकमत्ति भक्षयति मंडले अवस्थापयतीत्यर्थः । तदनंतरं वरूथं वरणीयं वृष्टिलक्षणमुदकं शीर्ष्णा शिरःस्थानीयेन रश्मिजालेन शिरः सर्वस्य लोकस्य मस्तकं प्रतिदधौ दधाति प्रतिक्षिपती त्यर्थः । किञ्च उपसि उपस्थे स्वसमीपस्थाने मण्डले आसीनउपविष्टः सन् ऊर्ध्वामुद्गतां स्वदीप्तिं क्षिणाति हिनस्ति आलोककरणाय प्रक्षिपतीत्यर्थः न्यङ् रश्मिमसमूहरूपेण नी- चैरञ्चिता गन्ता सन् उत्तानां विस्तृतां भूमिं अन्वेति अनुगच्छति ॥ १३ ॥